|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.197. अध्यायः 197
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
स्कन्देन देवादीन्प्रति धर्मरहस्यविशेषकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[स्कन्द उवाच।
ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः।
नीलषण्डस्य शृङ्गाभ्यां गृहीत्वा मृत्तिकां तु यः॥ 13-197-1(89078)
अभिषेकं त्र्यहं कुर्यात्तस्य धर्मं निबोधत।
शोधयेदशुभं सर्वमाधिपत्यं परत्र च॥ 13-197-2(89079)
यावच्च जायते मर्त्यस्तावच्छूरो भविष्यति।
इदं चाप्यपरं गुह्यं सरहस्यं निबोधत॥ 13-197-3(89080)
प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह।
सोमस्योत्तिष्ठमानस्यि पौर्णमास्यां बलिं हरेत्॥ 13-197-4(89081)
तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत।
साध्या रुद्रास्तथाऽऽदित्या विश्वेदेवास्तथाऽश्विनौ 13-197-5(89082)
मरुतो वसवश्चैव प्रतिगृह्णन्ति तं बलिम्।
सोमश्च वर्धते तेन समुद्रश्च महोदधिः॥ 13-197-6(89083)
एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः॥ 13-197-7(89084)
विष्णुरुवाच। 13-197-8x(7433)
धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम्।
ऋषीणां चैव गुह्यानि यः पठेदाह्निकं सदा॥ 13-197-8(89085)
शृणुयाद्वाऽनसूयुर्यः श्रद्दधानः समाहितः।
नास्य विघ्नः प्रभवति भयं चास्य न विद्यते॥ 13-197-9(89086)
ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः।
तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः॥ 13-197-10(89087)
नास्य पापं प्रभवति न च पापेन लिप्यते।
पठेद्वा श्रावयेद्वाऽपि श्रुत्वा वा लभते फलम्॥ 13-197-11(89088)
भुञ्जते पितरो देवा हव्यं कव्यमथाक्षयम्।
श्रावयंश्चापि विप्रेन्द्रान्पर्वसु प्रयतो नरः॥ 13-197-12(89089)
ऋषीणां देवतानां च पितॄणां चैव नित्यदा।
भवत्यभिमतः श्रीमान्धर्मेषु प्रयतः सदा॥ 13-197-13(89090)
कृत्वाऽपि पापकं कर्म महापातकवर्जितम्।
रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते॥ 13-197-14(89091)
भीष्म उवाच। 13-197-15x(7434)
एतद्धर्मरहस्यं वै देवतानां नराधिप।
व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम्॥ 13-197-15(89092)
पृथिवी रत्नसंपूर्णा ज्ञानं चेदमनुत्तमम्।
इदमेव ततः श्राव्यमिति मन्येत धर्मवित्॥ 13-197-16(89093)
नाश्रद्दधानाय न नास्तिकाय
न नष्टधर्मायि न निर्घृणाय।
न हेतुदुष्टाय गुरुद्विषे वा
नानात्मभूताय निवेद्यमेतत्॥ ॥ 13-197-17(89094)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तनवत्यधिकशततमोऽध्यायः॥ 197 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|